|| Shree ||
|| श्री ||
|| अथ संकष्टनाशनं गणेशस्तोत्रं ||
|| श्री गणेशाय नम: ||
नारद उवाच -
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् |
भक्तावासं स्मरेन्नित्यम् आयु:कामार्थ सिद्धये || १ ||
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् |
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् || २ ||
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च |
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् || ३ ||
नवमं भालचन्द्रं च दशमं तु विनायकम् |
एकादशं गणपतिं द्वादशं तु गजाननम् || ४ ||
द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: |
न च विघ्नभयं तस्य सर्व सिद्धिकरं प्रभो: || ५ ||
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् |
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् || ६ ||
जपेद् गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् |
संवत्सरेण सिद्धिं च लभते नात्र संशय: || ७ ||
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत् |
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादत: || ८ ||
इति श्रीनारदपुराणे संकष्टनाशनं नाम गणेशस्तोत्रं संपूर्णम् ||
